(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Aadiparv (Mahabharat) - आदिपर्व (महाभारत)


॥ श्रीः ॥
1.234. अध्यायः 234
Mahabharata - Adi Parva - Chapter Topics
ब्राह्मणैः सह तीर्थान्यटतोऽर्जुनस्य स्नानार्थं गङ्गायामवतरणम्॥ 1 ॥
तत्र उलूप्या नागकन्यया गृहीतस्यार्जुनस्य नागलोकगमनम्॥ 2 ॥
संवादपूर्वकमुलूप्याः परिग्रहः॥ 3 ॥ इरावत उत्पत्तिः॥ 4 ॥
अर्जुनं पुनर्गङ्गाद्वारमुपनीय उलूप्या स्वलोकगमनम्॥ 5 ॥
Mahabharata - Adi Parva - Chapter Text

वैशम्पायन उवाच। 1-234-0x(1268)(10140)
तं प्रयान्तं महाबाहुं कौरवाणां यशस्करम्।
अनुजग्मुर्महात्मानो ब्राह्मणा वेदपारगाः॥ 1-234-1(10141)
वेदवेदाङ्गविद्वासस्तथैवाध्यात्मचिन्तकाः।
भैक्षाश्च भगवद्भक्ताः सूताः पौराणिकाश्च ये॥ 1-234-2(10142)
कथकाश्चापरे राजञ्श्रमणाश्च वनौकसः।
दिव्याख्यानानि ये चापि पठन्ति मधुरं द्विजाः॥ 1-234-3(10143)
एतैश्चान्यैश्च बहुभिः सहायैः पाण्डुनन्दनः।
वृतः श्लक्ष्णकथैः प्रायान्मरुद्भिरिव वासवः॥ 1-234-4(10144)
रमणीयानि चित्राणि वनानि च सरांसि च।
सरितः सागरांश्चैव देशानपि च भारत॥ 1-234-5(10145)
पुण्यान्यपि च तीर्थानि ददर्श भरतर्षभः।
स गङ्गाद्वारमाश्रित्य निवेशमकरोत्प्रभुः॥ 1-234-6(10146)
तत्र तस्याद्भुतं कर्म शृणु त्वं जनमेजय।
कृतवान्यद्विशुद्धात्मा पाण्डूनां प्रवरो हि सः॥ 1-234-7(10147)
निविष्टे तत्र कौन्तेये ब्राह्मणेषु च भारत।
अग्निहोत्राणि विप्रास्ते प्रादुश्चक्रुरनेकशः॥ 1-234-8(10148)
तेषु प्रबोध्यमानेषु ज्वलितेषु हुतेषु च।
कृतपुष्पोपहारेषु तीरान्तरगतेषु च॥ 1-234-9(10149)
कृताभिषेकैर्विद्वद्भिर्नियतैः सत्पथे स्थितैः।
शुशुभेऽतीव तद्राजन्गङ्गाद्वारं महात्मभिः॥ 1-234-10(10150)
तथा पर्याकुले तस्मिन्निवेशे पाण्डवर्षभः।
अभिषेकाय कौन्तेयो गङ्गामवततार ह॥ 1-234-11(10151)
तत्राभिषेकं कृत्वा स तर्पयित्वा पितामहान्।
उत्तितीर्षुर्जलाद्राजन्नग्निकार्यचिकीर्षया॥ 1-234-12(10152)
अपकृष्टो महाबाहुर्नागराजस्य कन्यया।
अन्तर्जले महाराज उलूप्या कामयानया॥ 1-234-13(10153)
ददर्श पाण्डवस्तत्र पावकं सुसमाहितः।
कौरव्यस्याथ नागस्य भवने परमार्चिते॥ 1-234-14(10154)
तत्राग्निकार्यं कृतवान्कुन्तीपुत्रो धनञ्जयः।
अशङ्कमानेन हुतस्तेनातुष्यद्धुताशनः॥ 1-234-15(10155)
अग्निकार्यं स कृत्वा तु नागराजसुतां तदा।
प्रसहन्निव कौन्तेय इदं वचनमब्रवीत्॥ 1-234-16(10156)
किमिदं साहसं भीरु कृतवत्यसि भामिनि।
कश्चायं सुभगे देशः का च त्वं कस्य वात्मजा॥ 1-234-17(10157)
उलूप्युवाच। 1-234-18x(1269)
ऐरावतकुले जातः कौरव्यो नाम पन्नगः।
तस्यास्मि दुहिता राजन्नुलूपी नाम पन्नगी॥ 1-234-18(10158)
साऽहं त्वामभिषेकार्थमवतीर्णं समुद्गाम्।
दृष्ट्वैव पुरुषव्याघ्र कन्दर्पेणाभिमूर्च्छिता॥ 1-234-19(10159)
तां मामनङ्गग्लपितां त्वत्कृते कुरुनन्दन।
अनन्यां नन्दयस्वाद्य प्रदानेनात्मनोऽनघ॥ 1-234-20(10160)
अर्जुन उवाच। 1-234-21x(1270)
ब्रह्मचर्यमिदं भद्रे मम द्वादशमासिकम्।
धर्मराजेन चादिष्टं नाहमस्मि स्वयं वशः॥ 1-234-21(10161)
तव चापि प्रियं कर्तुमिच्छामि जलचारिणि।
अनृतं नोक्तपूर्वं च मया किंचन कर्हिचित्॥ 1-234-22(10162)
कथं च नानृतं मे स्यात्तव चापि प्रियं भवेत्।
न च पीड्येत मे धर्मस्तथा कुर्या भुजङ्गमे॥ 1-234-23(10163)
उलूप्युवाच। 1-234-24x(1271)
जानाम्यहं पाण्डवेय यथा चरसि मेदिनीम्।
यथा च ते ब्रह्मचर्यमिदमादिष्टवान्गुरुः॥ 1-234-24(10164)
परस्परं वर्तमानान्द्रुपदस्यात्मजां प्रति।
यो नोऽनुप्रविशेन्मोहात्स वै द्वादशमासिकम्॥ 1-234-25(10165)
वने चरेद्ब्रह्मचर्यमिति वः समयः कृतः।
तदिदं दौपदीहेतोरन्योन्यस्य प्रवासनम्॥ 1-234-26(10166)
कृतवांस्तत्र धर्मार्थमत्र धर्मो न दुष्यति।
परित्राणं च कर्तव्यमार्तानां पृथुलोचन॥ 1-234-27(10167)
कृत्वा मम परित्राणं तव धर्मो न लुप्यते।
यदि वाप्यस्य धर्मस्य सूक्ष्मोऽपि स्याद्व्यतिक्रमः॥ 1-234-28(10168)
स च ते धर्म एव स्याद्दत्वा प्राणान्ममार्जुन।
भक्तां च भज मां पार्थ सतामेतन्मतं प्रभो॥ 1-234-29(10169)
न करिष्यसि चेदेवं मृतां मामुपधारय।
प्राणदानान्महाबाहो चर धर्ममनुत्तमम्॥ 1-234-30(10170)
शरणं च प्रपन्नास्मि त्वामद्य पुरुषोत्तम।
दीनाननाथान्कौन्तेय परिरक्षसि नित्यशः॥ 1-234-31(10171)
साऽहं शऱणमभ्येमि रोरवीमि च दुःखिता।
याचे त्वां चाभिकामाहं तस्मात्कुरु मम प्रियम्।
स त्वमात्मप्रदानेन सकामां कर्तुमर्हसि॥ 1-234-32(10172)
वैशम्पायन उवाच। 1-234-33x(1272)
एवमुक्तस्तु कौन्तेयः पन्नगेश्वरकन्यया।
कृतवांस्तत्तथा सर्वं धर्ममुद्दिश्य कारणम्॥ 1-234-33(10173)
स नागभवने रात्रिं तामुषित्वा प्रतापवान्।
`पुत्रमुत्पादयामास स तस्यां सुमनोहरम्॥ 1-234-34(10174)
इरावन्तं महाभागं महाबलपराक्रमम्।'
उदितेऽभ्युत्थितः सूर्ये कौरव्यस्य निवेशनात्॥ 1-234-35(10175)
आगतस्तु पुनस्तत्र गङ्गाद्वारं तया सह।
परित्यज्य गता साध्वी उलूपी निजमन्दिरं॥ 1-234-36(10176)
दत्त्वा वरमजेयत्वं जले सर्वत्र भारत।
साध्या जलचराः सर्वे भविष्यन्ति न संशयः॥ ॥ 1-234-37(10177)

इति श्रीमन्महाभारते आदिपर्वणि अर्जुनवनवासपर्वणि चतुस्त्रिंशदधिकद्विशततमोऽध्यायः॥ 234 ॥

Mahabharata - Adi Parva - Chapter Footnotes
1-234-36 परिष्वज्येति ख. पाठः॥ चतुस्त्रिंशदधिकद्विशततमोऽध्यायः॥ 234 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.